|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.47. अध्यायः 047
Mahabharata - Bhishma Parva - Chapter Topics
उत्तरकुमारवधः ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-47-0x(4108)(40454)
गतपूर्वाह्णभूयिष्ठि तस्मिन्नहनि दारुणे।
वर्तमाने तथा रौद्रे महावीरवरक्षये ॥ 6-47-1(40455)
दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः।
भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ॥ 6-47-2(40456)
एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभः ।
पाण्डवानामनीकानि विजगाहे महारथः ॥ 6-47-3(40457)
चेदिकाशिकरूषेषु पञ्चालेषु च भारत ।
भीष्मस्य बहुधा तालश्चलत्केतुरदृश्यत ॥ 6-47-4(40458)
स शिरांसि रणेऽरीणां रथांश्च सयुगध्वजान् ।
निचकर्त महावेगैर्भल्लैः सन्नतपर्वभिः ॥ 6-47-5(40459)
नृत्यतो रथमार्गेषु भीष्मस्य भरतर्षभ ।
भृशमार्तस्वरं चक्रुर्नागा मर्मणि ताडिताः ॥ 6-47-6(40460)
अभिमन्युः सुसंक्रुद्धः पिशह्गैस्तुरगोत्तमैः ।
संयुक्तं रथमास्थाय प्रायाद्भीष्मरथं प्रति ॥ 6-47-7(40461)
जाम्बूनदविचित्रेण कर्णिकारेण केतुना ।
अभ्यवर्तत भीष्मं च तांश्चैव रथसत्तमान् ॥ 6-47-8(40462)
स तालकेतोस्तीक्ष्णेन केतुमाहत्य पत्रिणा ।
भीष्मेण युयुधे वीरस्तस्य चानुरथैः सह ॥ 6-47-9(40463)
कृतवर्माणमेकेन शल्यं पञ्चभिराशुगैः ।
विद्ध्वा नवभिरानर्च्छच्छिताग्रैः प्रतिपामहम् ॥ 6-47-10(40464)
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च।
ध्वजमेकेन विव्याध जाम्बूनदपरिष्कृतम् ॥ 6-47-11(40465)
दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना ।
जहार सारथेः कायाच्छिरः सन्नतपर्वणा ॥ 6-47-12(40466)
धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम्।
कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ॥ 6-47-13(40467)
जघान परमक्रुद्धो नृत्यन्निव महारथः ।
तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ॥ 6-47-14(40468)
लब्धलक्षतया कार्ष्णेः सर्वे भीष्ममुखा रथाः ।
सत्ववन्तममन्यन्त साक्षादिव धनंजयम् ॥ 6-47-15(40469)
तस्य लाघवमार्गस्थमलातसदृशप्रभम्।
दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ॥ 6-47-16(40470)
तमासाद्य महावेगैर्भीष्मो नव्रभिराशुगैः ।
विव्याध समरे तूर्णमार्जुनिं परवीरहा ॥ 6-47-17(40471)
ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः ।
सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ॥ 6-47-18(40472)
तथैव कृतवर्मा च कृपः शल्यश्च मारिष ।
विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ॥ 6-47-19(40473)
स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः ।
ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ॥ 6-47-20(40474)
ततस्तेषां सहस्राणि संवार्य शरवृष्टिभिः ।
ननाद बलवान्कार्ष्णिर्भीष्माय विसृज्यञ्शरान् ॥ 6-47-21(40475)
तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत ।
यतमानस्य समरे भीष्ममर्दयतः शरैः ॥ 6-47-22(40476)
पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् ।
स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ॥ 6-47-23(40477)
ततो ध्वजमामोघेंषुर्भीष्मस्य नवभिः शरैः ।
चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ॥ 6-47-24(40478)
स राजतो महास्कन्धस्तालो हेमविभूषितः ।
सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ॥ 6-47-25(40479)
तं तु सौभद्रविशिखैः पातितं भरतर्षभ ।
दृष्ट्वा भीमो ननादोच्चैः सौभद्रमभिहर्षयन् ॥ 6-47-26(40480)
अथ भीष्मो महास्राणि दिव्यानि सुबहूनि च ।
प्रादुश्चक्रे महारौद्रे रणे तस्मिन्महाबलः ॥ 6-47-27(40481)
ततः शरसहस्रेण सौभद्रं प्रतितामहः ।
अवाकिरदमेयात्मा तदद्भुतमिवाभवत् ॥ 6-47-28(40482)
ततो दश महेष्वासाः पाण्डवानां महारथाः ।
रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ॥ 6-47-29(40483)
विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः ।
भीमश्च केकयाश्चैव सात्यकिश्च विशांपते ॥ 6-47-30(40484)
तेषां जवेनापततां भीष्मः शान्तनवो रणे ।
पाञ्चाल्यं त्रिभिरानर्च्छत्सात्यकिं नवभिः शरैः । 6-47-31(40485)
पूर्णायतविसृष्टेन क्षुरेण निशितेन च।
ध्वजमेकेन चिच्छेद भीमसेनस्य पत्रिणा ॥ 6-47-32(40486)
जाम्बूनदमयः श्रीमान्केसरी स नरोत्तम ।
पपात भीमसेनस्य भीष्मेण मथितो रथात् ॥ 6-47-33(40487)
ततो भीमस्त्रिभिर्विद्ध्वा भीष्मं शान्तनवं रणे।
कृपमेकेन विव्याध कृतवर्माणमष्टभिः ॥ 6-47-34(40488)
प्रगृहीताग्रहस्तेकन वैराटिरपि दन्तिना ।
अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ॥ 6-47-35(40489)
तस्य वारणराजस्य जवेनापततो रथे ।
शल्यो निवारयामास वेगमप्रतिमं शरैः । 6-47-36(40490)
तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः ।
पदा युगमधिष्ठाय जघान चतुरो हयान् ॥ 6-47-37(40491)
स हताश्वे रथे तिष्ठन्मद्राधिपतिरायसीम् ।
उत्तरान्तकरीं शक्तिं चिक्षेप भुजगोपमाम् ॥ 6-47-38(40492)
तया भिन्नतनुत्राणः प्रविश्य विपुलं तमः।
स पपात गजस्कन्धात्परमुक्ताङ्कुशतोमरः ॥ 6-47-39(40493)
असिमादाय शल्योऽपि अवप्लुत्य रथोत्तमात्।
तस्य वारणराजस्य चिच्छेदाथ महाकरम् ॥ 6-47-40(40494)
भिन्नमर्मा शरशतैश्छिन्नहस्तः सवारणः।
भीममार्तस्वरं कृत्वा पपात च ममार च ॥ 6-47-41(40495)
एतदीदृशकं कृत्वा मद्रराजो नराधिप ।
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥ 6-47-42(40496)
उत्तरं वै हतं दृष्ट्वा वैराटिर्भ्रातरं तदा ।
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ॥ 6-47-43(40497)
श्वेतः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ।
स विस्फार्य महच्चापं शक्रचापोपमं बली ॥ 6-47-44(40498)
अभ्यधाव़ञ्जिघांसन्वै शल्यं मद्राधिपं बली।
महता रथवंशेन समन्तात्परिवारितः ॥ 6-47-45(40499)
मुञ्चन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति।
तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् ॥ 6-47-46(40500)
तावकानां रथाः सप्त समन्तात्पर्यवारयन् ।
मद्रराजमभीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥ 6-47-47(40501)
बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः ।
तथा रुक्मरथो राजञ्शल्यपुत्रः प्रतापवान् ॥ 6-47-48(40502)
विन्दानुविन्दावावान्त्यौ काम्भोजश्च सुदक्षिणः ।
बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः ॥ 6-47-49(40503)
नानावर्णविचित्राणि धनूंषि च महात्मनाम् ।
विस्फारितानि दृश्यन्ते तोयदेष्विव विद्युतः ॥ 6-47-50(40504)
ते तु बाणमयं वर्षं श्वेतमूर्धन्यपातयन्।
निदाघान्तेऽनिलोद्धूता मेघा इव नगे जलम् ॥ 6-47-51(40505)
ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः ।
धनूंषि तेषामाच्छिद्य ममर्द पृतनापतिः ॥ 6-47-52(40506)
निकृत्तान्येव तानि स्म समदृश्यन्त भारत ।
ततस्ते तु निमेषार्धात्प्रत्यपद्यन्धनूंषि च ॥ 6-47-53(40507)
सप्त चैव पृषत्कांश्च श्वेतस्योपर्यपातयन्।
ततः पुनरमेयात्मा भल्लैः सप्तभिराशुगैः ।
निचकर्त महाबाहुस्तेषां चापानि धन्विनाम् ॥ 6-47-54(40508)
ते निकृत्तमहाचापास्त्वरमाणा महारथाः ।
रथशक्तीः परामृश्य विनेदुर्भैरवान्रवान् ॥ 6-47-55(40509)
अन्वयुर्भरतश्रेष्ठ सप्त श्वेतरथं प्रति।
ततस्ता ज्वलिताः सप्त महेन्द्राशनिनिःस्वनाः ॥ 6-47-56(40510)
अप्राप्ताः सप्तभिर्भल्लैश्चिच्छेद परमास्त्रवित्। 6-47-57bततः समादाय शरं सर्वकायविदारणम् ॥ 6-47-57(40511)
प्राहिणोद्भरतश्रेष्ठ श्वेतो रुक्मरथं प्रति।
तस्य देहे निपतितो बाणो वज्रातिगो महान् ॥ 6-47-58(40512)
ततो रुक्मरथो राजन्सायकेन दृढाहतः ।
निषसाद रथोपस्थे कश्मलं चाविशन्महत् ॥ 6-47-59(40513)
तं विसंज्ञं विमनसं त्वरमाणस्तु सारथिः ।
अपोवाह नसंभ्रान्तः सर्वलोकस्य पश्यतः ॥ 6-47-60(40514)
ततोऽन्यान्षट् समादाय श्वेतो हेमविभूषितान् ।
तेषां षण्मां महाबाहुर्ध्वजशीर्षण्यपातयत् ॥ 6-47-61(40515)
हयांश्च तेषां निर्भिद्य सारथींश्च परंतप ।
शरैश्चैतान्समाकीर्य प्रायाच्छल्यरथं प्रति ॥ 6-47-62(40516)
ततो हलहलाशब्दस्तव सैन्येषु भारत।
दृष्ट्वा सेनापतिं तूर्णं यान्तं शल्यरथं प्रति ॥ 6-47-63(40517)
ततो भीष्मं पुरस्कृत्य तव पुत्रो महाबलः ।
वृतस्तु सर्वसैन्येन प्रायाच्छ्वेतरथं प्रति ॥ 6-47-64(40518)
मृत्योरास्यमनुप्राप्तं मद्रराजममोचयत् ।
ततो युद्धं समभवत्तुमुलं रोमहर्षणम् ॥ 6-47-65(40519)
तावकानां परेषां च व्यतिषक्तरथद्विपम् ।
सौभद्रे भीमसेन च सात्यकौ च महारथे ॥ 6-47-66(40520)
कैकेये च विराटे च धृष्टद्युम्ने च पार्षते ।
एतेषु नरसिंहेषु चेदिमत्स्येषु चैव ह ।
ववर्ष शरवर्षाणि कुरुवृद्धः पितामहः ॥ ॥ 6-47-67(40521)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-47-7 पिशङ्कैः पिङ्गलैः ॥ 6-47-8 कर्णिकारेण कर्णिकारद्रुमोपमेन ॥ 6-47-9 अनुरथैः पार्ष्णिगोपादिभिः ॥ 6-47-11 पूर्णयतविसृष्टेन आकर्णाकृष्टत्यक्तेन। प्रणिहितेन प्रेरितेन ॥ 6-47-36 रथे रथोपरि ॥ 6-47-43 वैराटिः शङ्खः ॥ 6-47-47 सप्तचत्वारिंशोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|